||Sundarakanda ||

|| Sarga 20||( Only Slokas in Devanagari) )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकाण्ड्.
अथ विंशस्सर्गः

स तां परिवृताम् दीनां निरानन्दां तपस्स्विनीम्।
साकारैर्मथुरैर्वाक्यैः न्यदर्शयत रावणः॥1||

मां दृष्ट्वा नागनासोरु गूहमान स्तनोदरम्।
अदर्शनमिवात्मानं भयान्नेतुं त्व मिच्चसि॥2||

कामयेत्वां विशालाक्षी बहुमन्यस्व मां प्रिये।
सर्वाङ्ग गुण संपन्ने सर्वलोकमनोहरे॥3||

नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः।
व्यपसर्पतु ते सीते भयं मत्तस्समुत्थितम्॥4||్

स्वधर्मो रक्षसां भीरु सर्वथैव नसंशयः।
गमनं वा परस्त्रीणां हरणं संप्रमध्य वा॥5||

एवं चैतदकामं तु न त्वां स्प्रक्ष्यामि मैथिलि।
कामं कामः शरीरे मे यथा कामं प्रवर्तताम्॥6||

देवी नेह भयं कार्यं मयि विश्वसिहि प्रिये।
प्रणयस्व च तत्वेन मैवं भूः शोकलालसा॥7||

एकवेणीधराशय्या ध्यानं मलिन मंबरम्।
अस्थानेऽप्युपवासश्च नैता न्यौपयिकानि ते॥8||

विचित्राणि च माल्यानि चन्दनान्यगरूणि च।
विविधानि च वासांसि दिव्यान्याभरणानिच ||9||

महार्हाणि च पानानि शयनान्यासनानि च।
गीतं नृत्तं च वाद्यंच लभ मां प्राप्य मैथिलि॥10||

स्त्री रत्नमसि मैवं भूः कुरु गात्रेषु भूषणं।
मां प्राप्य हि कथं नु स्यात् त्वमनर्हा सुविग्रहे॥11||

इदं ते चारु संजातं यौवनं व्यतिवर्तते।
यत् अतीतं पुनर्नैति स्रोतः शीघ्रमपामिव॥12||

त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक् |
न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने॥13||

त्वां समसाद्य वैदेही रूपयौवनशालिनीम्।
कः पुमा नतिवर्तेत साक्षा दपि पितामहः॥14||

यद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने।
तस्मिं स्तस्मिन् पृथुश्रोणी चक्षुर्मम निबध्यते॥15||

भव मैथिलि भार्या मे मोह मेनं विसर्जय।
बह्विनां उत्तमस्त्रीणां आहृतानाम् इतः ततः॥16||

सर्वासामेव भद्रंते ममाग्रमहीषीभव।
लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि वै॥17||

तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते।
विजित्य पृथिवीं सर्वां नानानगरमालिनीम्॥18||

जनकाय प्रदास्यामि तव हेतोर्विलासिनी।
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् ||19||

पश्यमे सुमहद्वीर्यं अप्रतिद्वन्द्वमाहवे।
असकृत् संयुगे भग्ना मया विमृदितध्वजाः॥20||

अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः।
इच्चया क्रियता मद्य प्रतिकर्म तवोत्तमम्॥21||

सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानिच।
साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा॥22||

प्रतिकर्माभि संयुक्ता दाक्षिण्येन वरानने।
भुंक्ष्वभोगान् यथाकामं पिब भीरु रमस्व च॥23||
'
यथेष्टं च प्रयच्च त्वं पृथिवीं वा धनानि च।
ललस्व मयि विस्रब्दा धृष्ट माज्ञापयस्व च॥24||

मत्प्रसादा ल्ललन्त्याश्च ललन्तां भान्धवा स्तव |
बुद्धिं मामनुपश्य त्वं श्रियं भद्रे यशश्च मे॥25||

किं करिष्यसि रामेण सुभगे चीरवाससा।
निक्षिप्त विजयो रामो गतश्रीः वनगोचरः॥26||

व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा।
न हि वैदेहि राम स्त्वां द्रष्टुं वाप्युपलप्स्यते॥27||

पुरो बलाकै रसितैः मेघैः ज्योत्स्नामिवावृतम्।
न चापि मम हस्ता त्त्वाम् प्राप्तु मर्हति राघवः॥28||

हिरण्यकशिपुः कीर्तिं इंद्रहस्तगतामिव।
चारुस्मिते चारुदति चारुनेत्रे विलासिनि॥ 29||

मनोहरसि मे भीरु सुपर्णः पन्नगं यथा।
क्लिष्ट कौशेयवसनां तन्वी मप्यनलङ्कृताम्॥30||

तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्।
अन्तःपुर निवासिन्यः स्त्रियः सर्वगुणान्विताः॥31||

यावंत्यो मम सर्वासाम् ऐश्व्वर्यं कुरु जानकि।
मम ह्यसितकेशांते त्रैलोक्यप्रवरा स्स्त्रियः॥32||

तास्त्वां परिचरिष्यन्ति श्रिय मप्सरसो यथा।
यानि वैश्रवणे सुभ्रु रत्नानि धनानि च॥33||

तानि लोकांश्च सुश्रोणि मां च भुङ्‍क्ष्व यथा सुखम्।
न रामस्तपसा देवि न बलेन न विक्रमैः।
न धनेन मया तुल्यः तेजसा यशसाऽपि वा।34||

पिब विहर रमस्व भुङ्‍क्ष्व भोगान्
धननिचयं प्रदिशामि मेदिनीं च।
मयि लल ललने यथासुखं त्वं
त्वयि च समेत्य ललन्तु बान्धवास्ते || 35||

कुसुमित तरुजाल संततानि
भ्रमरयुतानि समुद्रतीरजानि।
कनक विमल हारभूषिताङ्गि
विहर मया सह भीरु काननानि॥36||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे विंशस्सर्गः॥

||ओम् तत् सत्॥

|| Om tat sat ||